Monday, 12 September 2022

आधुनिक युगे संस्कृतस्य महत्वम्

संस्कृता परिशुद्धा व्याकरणादि दोषरहिता या भाषा सा " संस्कृतम् " इति कथ्यते । वस्तुत: एषा भाषा विश्वस्य प्राचीनतमा भाषा वर्तते तथा च सर्वासाम् आर्य भाषाणां जननी अस्ति। संप्रति जनानां चिन्तनम् अस्ति यत् एतस्या: भाषाया: का आवश्यकता अस्ति ? अस्या: भाषाया: अध्ययनेन किं प्रयोजनम् ? प्राचीनकाले यदा संस्कृतभाषा जनभाषा आसीत् तदा भारतं विश्वगुरु: आसीत् । प्राचीनभारते संस्कृतकारणात् संस्कृति: आसीत् , संस्कृतिकारणात् संस्कारा: आसन् । संस्काराणां कारणात् प्रगति: आसीत् तस्मात् एव कारणात् भारतं विश्वगुरुपदे स्थापितं आसीत् । यहां क्लिक किजिए , संस्कृत के लिए बहुत उपयोगी विडियो दिखेगा सम्प्रति सम्पूर्णे विश्वेऽस्मिन् अस्तित्वस्य संघर्ष: चलति । एकदेश: द्वितीयस्य देशस्य उपरि आक्रमणं करोति तथा च अन्यदेशे आतंकवादं प्रोत्साहयति । अस्मिन् संदर्भे संस्कृतं शिक्षयति यत् - 
 सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामया: ।
 सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग्भवेत् ।।
 वर्तमान युगं " संगणकयुगम् " अस्ति । अस्मिन् युगे किम् अपि कार्यं संगणकयन्त्रं विना न संभवति । एतादृक् परिस्थितौ विश्वस्य सर्वै: वैज्ञानिकै: प्रतिपादितं यत् संगणकयंत्रस्य कृते सर्वाधिका उपयुक्ता भाषा केवलं संस्कृतम् एव अस्ति । अतः अस्माभि: संस्कृतं पठनीयम् एव ।

No comments:

Post a Comment

विद्या आधारित श्लोक

            विद्या आधारित श्लोक   संस्कृत में बहुत से विद्या आधारित श्लोकों का संकलन उपलब्ध है उन्हीं में से कुछ विद्या आधारित श्लोकों का हि...