वाच्य परिवर्तनम् ( भाग -2 )
अधोलिखितेषु संवादेषु रिक्तस्थानानि वाच्यानुसारं उचितै: पदै: पूरयत् -
01. [ CBSE 2014 ]
शिक्षक: - अमन ! गत्वा पश्य ...............किं कुर्वन्ति ?
अमन: - छात्रै: तु ....................लिख्यन्ते |
शिक्षक: - किं त्वं लेखं .....................?
अमन: - आम् ! ..............अपि लेख: लिख्यते |
शिक्षक: - सुरेश: न दृश्यते | स: कुत्र ?
अमन: - सुरेश: स्वस्थ: न अस्ति , अतः विद्यालय-चिकित्सा-कक्षे तेन ...............क्रियते |
शिक्षक: - अस्तु , स: विश्रामम् करोति | समीचीनम् |
02. CBSE - 2016
अध्यापिका - अनु ! किम् त्वं पाठं ...............?
अनु - आम् , मया ......................स्मर्यते |
अध्यापिका - तर्हि किमर्थं ...................सम्यग् उत्तरं न दीयते |
अनु - जानामि ..................| अनभ्यासादेव |
अध्यापिका - किं त्वया पुनरावृत्ति: ................?
अनु - आम् , अहं पुनरावृत्तिम् करोमि |
03. CBSE - 2014
देवांश: - मित्र ! त्वं कुत्र ( i ).............?
हृदय: - मित्र ! ( ii ) .......... तु पुस्तकालयं गम्यते |
देवांश: - ( iii ).........अपि त्वया सह चलामि |
हृदय: - आगच्छ ! शीघ्रं एव आवां चलाव: |
देवांश: - आम् ! त्वया कीदृशम् पुस्तकं ( iv ) ..........|
हृदय: - मया ज्ञानवर्धनं ( v ) ........... पठ्यते |
देवांश: - शोभनम् | त्वमपि शोभनं बाल: अस्ति |
04. [ CBSE - 2016 ]
श्याम: - सोहन ! किम् ....................मया सह पत्रालयं गच्छसि ?
सोहन: - नहि , मया तु पत्रालयं न ................| अहं तु पाठं स्मरामि |
श्याम: - शोभनम् | इदानीं त्वया ................स्मर्यते ! तदनन्तरं त्वं किं करोषि ?
सोहन: - तत्पश्चात् माया गणितस्य अभ्यास: ............|
श्याम: - अस्तु , ..................तु पत्रालयम् एव गम्यते |
01. उत्तराणि :- 01. छात्रा: , 02. लेखा: , 03. लिखसि , 04. मया
02. उत्तराणि :- 01. स्मरसि , 02. पाठ: , 03. त्वया , 04. अहम् , 05. क्रियते
03.उत्तराणि :- 01. गच्छसि , 02. मया , 03. अहम् , 04. पठ्यते , 05. पुस्तकं
04. उत्तराणि :- 01. त्वं , 02. गम्यते , 03. पाठ: ,04. क्रियते , 05. मया
No comments:
Post a Comment